(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    


॥ श्रीः ॥
6.116. अध्यायः 116
Mahabharata - Bhishma Parva - Chapter Topics
संकुलयुद्धवर्णनम् ॥ 1 ॥


Mahabharata - Bhishma Parva - Chapter Text

सञ्जय उवाच। 6-116-0x(4236)(44136)
अभिमन्युर्महाराज तव पुत्रमयोधयत्।
महत्या सेनया युक्तं भीष्महेतोः पराक्रमी ॥ 6-116-1(44137)
दुर्योधनो रणे कार्षिं नवभिर्नतपर्वभिः।
आजघानोरसि क्रुद्धः पुनश्चैनं त्रिभिः शरैः ॥ 6-116-2(44138)
तस्य शक्तिं रणे कार्ष्णिर्मृत्योर्जिह्वामिवायसीम्।
प्रेषयामास संक्रुद्धो दुर्योधनरथं प्रति ॥ 6-116-3(44139)
तामापतन्तीं सहसा घोररूपां विशांपते ।
द्विधा चिच्छेद ते पुत्रः क्षुरप्रेण महारथः ॥ 6-116-4(44140)
तां शक्तिं पतितां दृष्ट्वा कार्ष्णिः परमकोपनः ।
दुर्योधनं त्रिभिर्बाणैर्बाह्वोरुरसि चार्पयत् ॥ 6-116-5(44141)
पुनश्चैनं शरैर्घोरैराजघान स्तनान्तरे ।
दशभिर्भरतश्रेष्ठ दुर्योधनममर्षणम् ॥ 6-116-6(44142)
तद्युद्धमभवद्धोरं चित्ररूपं च भारत।
ईक्षितृप्रीतितजननं सर्वपार्थिवपूजितम् ॥ 6-116-7(44143)
भीष्मस्य निधनार्थाय पार्थस्य विजयाय च।
युयुधाते रणे वीरौ सौभद्रकुरुपुङ्गवौ ॥ 6-116-8(44144)
सात्यकिं रभसं युद्धे द्रौणिर्ब्राह्मणपुङ्गवः ।
आजघानोरसि क्रुद्धो नाराचेन परंतपः ॥ 6-116-9(44145)
शैनेयोऽपि गुरोः पुत्रं सर्वमर्मसु भारत।
अताडयदमेयात्मा नवभिः कङ्कपत्रिभिः ॥ 6-116-10(44146)
अश्वत्थामा तु समरे सात्यकिं नवभिः शरैः ।
त्रिंशता च पुनस्तूर्णं बाह्वोरुरसि चार्पयत् ॥ 6-116-11(44147)
सोऽतिविद्धो महेष्वासो द्रोणपुत्रेण सात्यकिः ।
द्रोणपुत्रं त्रिभिर्बाणैराजघान महायशाः ॥ 6-116-12(44148)
पौरवो धृष्टकेतुं च शरैराच्छाद्य संयुगे ।
बहुधा दारयांचक्रे महेष्वासं महारथः ॥ 6-116-13(44149)
तथैव पौरवं युद्धे धृष्टकेतुर्महारथः।
त्रिंशता निशितैर्बाणैर्विव्याधाशु महाभुजः ॥ 6-116-14(44150)
पौरवस्तु धनुश्छित्त्वा धृष्टकेतोर्महारथः ।
ननाद बलवन्नादं विव्याध च शितैः शरैः ॥ 6-116-15(44151)
सोऽन्यत्कार्मुकमादाय पौरवं निशितैः शरैः ।
आजघान महाराज त्रिसप्तत्या शिलीमुखैः ॥ 6-116-16(44152)
तौ तु तत्र महेष्वासौ महामात्रौ महारथौ ।
महता शरवर्षेण परस्परमवर्षताम् ॥ 6-116-17(44153)
अन्योन्यस्य धनुश्छित्त्वा हयान्हत्वा च भारत।
विरथावसियुद्धाय समीयतुरमर्षणौ ॥ 6-116-18(44154)
आर्षभे चर्मणी चित्रे शतचन्द्रपुरस्कृते ।
तारकाशतचित्रे च निस्त्रिंशौ सुमहाप्रभौ ॥ 6-116-19(44155)
प्रगृह्य विमलौ राजंस्तावन्योन्यमभिद्रुतौ ।
वासितासंगमे यत्तौ सिंहाविव महावने ॥ 6-116-20(44156)
मण्डलानि विचित्राणि गतप्रत्यागतानि च।
चेरतुर्दर्शयन्तौ च प्रार्थयन्तौ परस्परम् ॥ 6-116-21(44157)
पौरवो धृष्टकेतुं तु शङ्खदेशे महासिना ।
ताडयामास संक्रुद्धस्तिष्ठतिष्ठेति चाब्रवीत् ॥ 6-116-22(44158)
चेदिराजोऽपि समरे पौरवं पुरुषर्षभम् ।
आजघान शिताग्रेण जत्रुदेशे महासिना ॥ 6-116-23(44159)
तावन्योन्यं महाराज समासाद्य महाहवे ।
अन्योन्यवेगाभिहतौ निपेततुररिंदमौ ॥ 6-116-24(44160)
ततः स्वरथमारोप्य पौरवं तनयस्तव ।
जयत्सेनो रथेनाजावपोवाह रणाजिरात् ॥ 6-116-25(44161)
धृष्टकेतु तु समरे माद्रीपुत्रः प्रतापवान् ।
अपोवाह रणे क्रुद्धः सहदेवः पराक्रमी ॥ 6-116-26(44162)
चित्रसेनः सुशर्माणं विद्ध्वा बहुभिरायसैः ।
पुनर्विव्याध तं षष्ट्या पुनश्च नवभि शरैः ॥ 6-116-27(44163)
सुशर्मा तु रणे क्रुद्धस्तव पुत्रं विशांपते ।
दशमिर्दशभिश्चैव विव्याध निशितैः शरैः ॥ 6-116-28(44164)
चित्रसेनश्च तं राजंस्त्रिंशता नतपर्वभिः ।
आजघान रमे क्रुद्धः स च तं प्रत्यविध्यत ॥ 6-116-29(44165)
भीष्मस्य समरे राजन्यशो मानं च वर्धयन् ।
सौभद्रो राजपुत्रं तु बृहद्बलमयोधयत् ॥ 6-116-30(44166)
पार्थहेतोः पराक्रान्तो भीष्मस्य निधनं प्रति।
आर्जुनिं कोसलेन्द्रस्तु विद्ध्वा पञ्चभिरायसैः ॥ 6-116-31(44167)
पुनर्विव्याध विंशत्या शरैः सन्नतपर्वभिः ।
सौभद्रः कोसलेन्द्रं तु विव्याधाष्टभिरायसैः ॥ 6-116-32(44168)
नाकम्पयत संग्रामे विव्याध च पुनः शरैः ।
कौसल्यस्य धनुश्चापि पुनश्चिच्छेद फाल्गुनिः ॥ 6-116-33(44169)
आजघान शरैश्चापि त्रिंशता कङ्कपत्रिभिः ।
सोऽन्यत्कार्मुकमादाय राजपुत्रो बृहद्बलः ॥ 6-116-34(44170)
फाल्गुनिं समरे क्रुद्धो विव्याध बहुभिः शरैः ।
तयोर्युद्धं समभवद्भीष्महेतोः परंतप ॥ 6-116-35(44171)
संरब्धयोर्महाराज समरे चित्रयोधिनोः ।
यथा देवासुरे युद्धे बलिवासवयोरभूत् ॥ 6-116-36(44172)
भीमसेनो गजानीकं योधयन्बह्वशोभत ।
यथा शक्रो वज्रपाणिर्दारयन्पर्वतोत्तमान् ॥ 6-116-37(44173)
ते वध्यमाना भीमेन मात्गा गिरिसन्निभाः ।
निपेतुरुर्व्यां सहिता नादयन्तो वसुधराम् ॥ 6-116-38(44174)
गिरिमात्रा हि ते नागा भिन्नाञ्जनचयोपमाः ।
विरेजुर्वसुधां प्राप्ता विकीर्णा इव पर्वताः ॥ 6-116-39(44175)
युधिष्ठिरो महेष्वासो मद्रराजानमाहवे ।
महत्या सेनया गुप्तं पीडयामास संगतम् ॥ 6-116-40(44176)
मद्रेश्वरश्च समरे धर्मपुत्रं महारथम् ।
पीडयामास संरब्धो भीष्महेतोः पराक्रमी ॥ 6-116-41(44177)
विराटं सैन्धवो राजा विद्ध्वा सन्नतपर्वभिः ।
नवभिः सायकैस्तीक्ष्णैस्त्रिंशता पुनरार्पयत् ॥ 6-116-42(44178)
विराटश्च महाराज सैन्धवं वाहिनीपतिः ।
त्रिंशद्भिर्निशितैर्बाणैराजघान स्तनान्तरे ॥ 6-116-43(44179)
चित्रकार्मुकनिस्त्रिंशौ चित्रवर्मायुधध्वजौ ।
रेजतुश्चित्ररूपौ तौ संग्रामे मत्स्यसैन्धवौ ॥ 6-116-44(44180)
द्रोणः पाञ्चालपुत्रेण समागम्य महारणे ।
महासमुदयं चक्रे शरैः सन्नतपर्वभिः ॥ 6-116-45(44181)
ततो द्रोणो महाराज पार्षतस्य महद्धनुः ।
छित्त्वा पञ्चाशतेषूंश्च पार्षतं प्रति सृष्टवान् ॥ 6-116-46(44182)
सोऽन्यत्कार्मुकमादाय पार्षतः परवीरहा।
द्रोणस्य मिषतो युद्धे प्रेषयामास सायकान् ॥ 6-116-47(44183)
ताञ्छराञ्छरघातेन चिच्छेद स महारथः ।
द्रोणो द्रुपदपुत्राय प्राहिणोत्पञ्च सायकान् ॥ 6-116-48(44184)
ततः क्रुद्धो महाराज पार्षतः परवीरहा ।
द्रोणाय चिक्षेप गदां यमदण्डोपमां रणे ॥ 6-116-49(44185)
तामापतन्तीं सहसा हेमपट्टविभूषिताम्।
शरैः पञ्चाशता द्रोणो वारयामास संयुगे ॥ 6-116-50(44186)
सा छिन्ना बहुधा राजन्द्रोगचापच्युतैः शरैः ।
चूर्णीकृता विशीर्यन्ती पपात वसुधातले ॥ 6-116-51(44187)
गदां विनिहतां दृष्ट्वा पार्षतः शत्रुतापनः ।
द्रोणाय शक्तिं चिक्षेप सर्वपारशवीं शुभाम् ॥ 6-116-52(44188)
तां द्रोणो नवभिर्बाणैश्चिच्छेद युधि भारत।
पार्षतं च महेष्वासं पीजयामास संयुगे ॥ 6-116-53(44189)
एवमेतन्महायुद्धं द्रोणपार्षतयोरभूत्।
भीष्मं प्रति महाराज घोररूपं भयानकम् ॥ 6-116-54(44190)
अर्जुनः प्राप्य गाङ्गेयं पीडयन्निशितैः शरैः ।
अभ्यद्रवत संयत्तो वने मत्तमिव द्विपम् ॥ 6-116-55(44191)
प्रत्युद्ययौ च तं राजा भगदत्तः प्रतापवान् ।
त्रिधा भिन्नेन नागेन मदान्धेन महाबलः ॥ 6-116-56(44192)
तमापतन्तं सहसा महेन्द्रगजसन्निभम् ।
परं यत्नं समस्थाय बीभत्सुः प्रत्यपद्यत ॥ 6-116-57(44193)
ततो गजगतो राजा भगदत्तः प्रतापवान् ।
अर्जुनं शरवर्षेण वारयामास संयुगे ॥ 6-116-58(44194)
अर्जुनस्तु ततो नागमायान्तं रजतोपमैः ।
विमलैरायसैस्तीक्ष्णैरविध्यत महारणे ॥ 6-116-59(44195)
शिखण्डिनं च कौन्तेयो याहियाहीत्यचोदयत्।
भीष्मं प्रति महाराज जह्येनमिति चाब्रवीत् ॥ 6-116-60(44196)
प्राग्ज्योतिषस्ततो हित्वा पाण्डवं पाण्डुपूर्वज।
प्रययौ त्वरितो राजन्द्रुपदस्य रथं प्रति ॥ 6-116-61(44197)
ततोऽर्जुनो महाराज भीष्ममभ्यद्रवद्द्रुतम्।
शिखण्डिनं पुरस्कृत्य ततो युद्धमवर्तत । 6-116-62(44198)
ततस्ते तावकाः शूराः पाण्डवं रभसं युधि ।
समभ्यधावन्क्रोशन्तस्तदद्भुतमिवाभवत् ॥ 6-116-63(44199)
नानाविधान्यनीकानि पुत्राणां ते जनाधिप ।
अर्जुनो व्यधमत्काले दिवीवाभ्राणि मारुतः ॥ 6-116-64(44200)
शिखण्डी तु समासाद्य भरतानां पितामहम्।
इषुभिस्तूर्णमव्यग्रो बहुभिः स समाचिनोत् ॥ 6-116-65(44201)
रथाग्न्यगारश्चापार्चिरशिशक्तिगदेन्धनः ।
शरसङ्घमहाज्वालः क्षत्रियान्समरेऽदहत् ॥ 6-116-66(44202)
यथाऽग्निः सुमहानिद्धः कक्षे चरति सानिलः।
तथा जज्वाल भीष्मोऽपि दिव्यान्यस्त्राण्युदीरयन् ॥ 6-116-67(44203)
सोमकांश्च रणे भीष्मो जघ्ने पार्थपदानुगान् ।
न्यवारयत तत्सैन्यं पाण्डवस्य महारथः ॥ 6-116-68(44204)
सुवर्णपुङ्खैरिषुभिः शितैः सन्नतपर्वभिः ।
नादयन्स दिशो भीष्मः प्रदिशश्च महाहवे ॥ 6-116-69(44205)
पातयन्रथिनो राजन्हयांश्च सह सादिभिः ।
मुण्डतालवनानीव चकार स रथव्रजान् ॥ 6-116-70(44206)
निर्मनुष्यान्रथान्राजन्गजानश्वांश्च संयुगे ।
चकार समरे भीष्मः सर्वशस्त्रभृतां वरः ॥ 6-116-71(44207)
तस्य ज्यातलनिर्घोषं विस्फूर्जितमिवाशनेः ।
निशम्य सर्वतो राजन्समकम्पन्त सैनिकाः ॥ 6-116-72(44208)
अघोमा न्यपतन्बाणाः पितुस्ते मनुजेश्वर ।
नासञ्जन्त शरीरेषु भीष्मचापच्युताः शराः ॥ 6-116-73(44209)
निर्मनुष्यान्रथान्राजन्सुयुक्ताञ्जवनैर्हयैः ।
वातायमानानद्राक्षं ध्रियमाणान्विशांपते ॥ 6-116-74(44210)
चेदिकाशिकरूशानां सहस्राणि चतुर्दश ।
महारथाः समाख्याताः कुलपुत्रास्तनुत्यजः ॥ 6-116-75(44211)
अपरावर्तिनः शूराः सुवर्णविकृतध्वजाः ।
संग्रामे भीष्ममासाद्य सवाजिरथकुञ्जराः ॥ 6-116-76(44212)
जग्मुस्ते परलोकाय व्यादितास्यमिवान्तकम्।
न तत्रासीद्रणे राजन्सोमकानां महारथः ॥ 6-116-77(44213)
यः संप्राप्य रणे भीष्मं जीविते स्म मनो दधे ।
तांश्च सर्वान्रणे योधान्प्रेतराजपुरं प्रति ॥ 6-116-78(44214)
नीतानमन्यन्त जना दृष्ट्वा भीष्मस्य विक्रमम् ।
न कश्चिदेनं समरे प्रत्युद्याति महारथः ॥ 6-116-79(44215)
ऋते पाण्डुसुतं वीरं श्वेताश्वं कृष्णसारथिम् ।
शिखण्डिनं च समरे पाञ्चाल्यममितौजसम् ॥ ॥ 6-116-80(44216)

इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि दशमदिवसयुद्धे षोडशाधिकशततमोऽध्यायः ॥

Mahabharata - Bhishma Parva - Chapter Footnotes

6-116-27 चित्रसेन इति। पाण्डवपक्षीयः सुशर्मायमपरो वार्धक्षेमिर्नतु त्रैगर्तः ॥ 6-116-45 समुदयं संग्रामम्। भवेत्समुदयः सङ्घे संयुगे च समुद्रमे इति मेदिनी ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.